Saturday, November 29, 2014

Obama Will Come (Sudharma, 22-Nov-2014)


Original text (with corrections)


ओबामा आगमिष्यति

आगामिनि वर्षे भारतवर्षगणराज्योत्सवे भागं वोढुम् अमेरिकाध्यक्षः ओबामामहाशय आगमिष्यति। प्रधानमन्त्रिणा नरेन्द्रः मोदी इत्यनेन दत्तम् आह्वानम् अमेरिकादेशाध्यक्षेणाङ्गीकृतम्।
          पुरा 2011 नवम्बरमासे ओबामा भारतवर्षम् आगतः। तदा मनमोहनसिंहोऽत्र प्रधानमन्त्री आसीत्। तस्य पुनरागमनेन भारतामेरिकादेशयोर्मैत्री दृढा भविष्यतीति विश्वस्यते। यदा मोदी अमेरिकादेशं गतः, तदा तस्य प्रशंसा अमेरिकाध्यक्षेण कृतासीत्। तयोः संवादश्चातीव स्नेहमयोऽभवत्। अमेरिकादेशे स्थिताः भारतवर्षसंजाताः अनया स्नेहाभिवृद्ध्यातीव सन्तुष्टाः। श्रीमान् नरेन्द्रः मोदी सर्वैः देशैः साकं सख्यम् अपेक्षते।

Version without sandhis


ओबामा आगमिष्यति

आगामिनि वर्षे भारतवर्ष-गणराज्य-उत्सवे भागं वोढुम् अमेरिका-अध्यक्षः ओबामा-महाशयः आगमिष्यति। प्रधानमन्त्रिणा नरेन्द्रः मोदी इति अनेन दत्तम् आह्वानम् अमेरिका-देश-अध्यक्षेण अङ्गीकृतम्।
          पुरा 2011 नवम्बर-मासे ओबामा भारतवर्षम् आगतः। तदा मनमोहनसिंहः अत्र प्रधानमन्त्री आसीत्। तस्य पुनः आगमनेन भारत-अमेरिकादेशयोः मैत्री दृढा भविष्यति इति विश्वस्यते। यदा मोदी अमेरिकादेशं गतः, तदा तस्य प्रशंसा अमेरिका-अध्यक्षेण कृता आसीत्। तयोः संवादः अतीव स्नेहमयः अभवत्। अमेरिकादेशे स्थिताः भारतवर्ष-संजाताः अनया स्नेह-अभिवृद्ध्या अतीव सन्तुष्टाः। श्रीमान् नरेन्द्रः मोदी सर्वैः देशैः साकं सख्यम् अपेक्षते।

Interlinear, literal translation


ओबामा Obama आगमिष्यति will come

आगामिनि In next वर्षे in year भारतवर्ष-गणराज्य-उत्सवे in India-republic-festival भागं part वोढुम् to take अमेरिका-अध्यक्षः America-president ओबामा-महाशयः Obama-gentleman आगमिष्यति will come प्रधानमन्त्रिणा By prime minister नरेन्द्रः मोदी Narendra Modi इति so अनेन by him दत्तम् given आह्वानम् call अमेरिका-देश-अध्यक्षेण America-country-president अङ्गीकृतम् accepted
          पुरा In past 2011 नवम्बर-मासे in November-month ओबामा Obama भारतवर्षम् to India आगतः had come तदा Then मनमोहनसिंहः Manmohan Singh अत्र here प्रधानमन्त्री prime minister आसीत् was तस्य His पुनः again आगमनेन by coming भारत-अमेरिकादेशयोः of India-America-countries मैत्री friendship दृढा strong भविष्यति will become इति so विश्वस्यते is believed यदा When मोदी Modi अमेरिकादेशं to America-country गतः had gone, तदा then तस्य his प्रशंसा praise अमेरिका-अध्यक्षेण by America-president कृता done आसीत् was तयोः Their संवादः discussion and अतीव extremely स्नेहमयः full of affection अभवत् was अमेरिकादेशे In America-country स्थिताः present भारतवर्ष-संजाताः India-born अनया by this स्नेह-अभिवृद्ध्या by increase of affection अतीव extremely सन्तुष्टाः satisfied श्रीमान् Mr नरेन्द्रः मोदी Narendra Modi सर्वैः with all देशैः with countries साकं equal सख्यम् friendship अपेक्षते desires

Natural translation


Obama Will Come

American President Obama will come to participate in the celebration of Indian Republic (January 26) next year. The American President has accepted the invitation extended by Prime Minister Narendra Modi.

          Earlier Obama had come to India in November 2011. At that time, Manmohan Singh was our Prime Minister. It is believed that his repeat visit will strengthen the friendship between India and America. When Modi had gone to America, he was admired by the American President. Their discussion was extremely affectionate. People of Indian origin living in America were extremely satisfied with this strengthening of friendship. Mr Narendra Modi desires equal friendship with all countries.

No comments:

Post a Comment