Saturday, December 6, 2014

Diversity Needed in Sanskrit Literature (Sudharma, 27-Nov-2014)


Original text (with corrections)

संस्कृतरचनासु वैविध्यमस्तु

संस्कृतभाषायां बहव: कवय: साहित्यं रचयन्तीति महत: प्रमोदस्य स्थानम्। किन्तु तत्र वैविध्यं न दृश्यते इति चिन्ताया: कारणम्। जीवन्त्यां भाषायां वैविध्यं जायते। वैदिकं साहित्यं पुराणसाहित्यरूपेण, तत: काव्यसाहित्यरूपेण, नाटकरूपेण वैविध्यं प्राप्नोत्। ततस्तु वैविध्यं स्थगितम्। इदानीमपि संस्कृतकवय: कालिदासं भवभूतिं भारविं वानुसृत्य पद्यानि रचयितुम् एव यतन्ते। विश्वस्य प्रमुखासु भाषासु यत् साहित्यवैविध्यं संजातं, तद्देवभाषायां क्वचिदेव दृश्यते। तादृशा: प्रयत्ना नाभवन्निति न ब्रूम:। केचन कर्णाटकदेशे षट्पदी साहित्यानां देवभाषायां रचयितुं प्रायतन्त। किन्तु संस्कृतज्ञा: नावीन्यविमुखा: तत्राधिकम् उत्साहं न प्रादर्शयन्। डा. अभिराजराजेन्द्रमिश्र: स्वागतार्हान् नूतनान् प्रकारान् असृजत्। विषये विचारे निरूपणे च स नौतन्यं प्रदर्शितवान्। किन्तु बहव: संस्कृतज्ञास्तन्न जानन्त्यपि। संस्कृतप्राध्यापका अपि नूतनं साहित्यं न दृष्टवन्त इति लज्जास्पदम् इदम्। हिन्दीप्रभृतिषु भाषासु यत्साहित्यं नवविधया जायते, तस्य परिचय: सर्वेषां भवति, तद्विषये विचारविमर्श: प्रवर्तते। तादृशी परिस्थिति: संस्कृते नास्तीति विषादास्पदम्। नूतनं सकलं साहित्यं प्रशंसनीयमिति नास्माकमभिप्राय:। प्रशंसन्तु जना: निन्दन्तु वा। किन्तु प्रथमं पठन्तु। तदैव रचनासु वैविध्यं सम्भवेत्।

Version without sandhis


संस्कृत-रचनासु वैविध्यम् अस्तु

संस्कृत-भाषायाम् बहव: कवय: साहित्यम् रचयन्ति इति महत: प्रमोदस्य स्थानम्। किन्तु तत्र वैविध्यम् न दृश्यते इति चिन्ताया: कारणम्। जीवन्त्याम् भाषायाम् वैविध्यम् जायते। वैदिकम् साहित्यम् पुराण-साहित्य-रूपेण, तत: काव्य-साहित्य-रूपेण, नाटक-रूपेण वैविध्यम् प्राप्नोत्। तत: तु वैविध्यम् स्थगितम्। इदानीम् अपि संस्कृत-कवय: कालिदासम् भवभूतिम् भारविम् वा अनुसृत्य पद्यानि रचयितुम् एव यतन्ते। विश्वस्य प्रमुखासु भाषासु यत् साहित्य-वैविध्यम् संजातम्, तत् देवभाषायाम् क्वचित् एव दृश्यते। तादृशा: प्रयत्ना: न अभवत् इति न ब्रूम:। केचन कर्णाटक-देशे षट्-पदी साहित्यानाम् देवभाषायाम् रचयितुम् प्रायतन्त। किन्तु संस्कृतज्ञा: नावीन्य-विमुखा: तत्र अधिकम् उत्साहम् न प्रादर्शयन्। डा. अभिराज-राजेन्द्र-मिश्र: स्वागत-अर्हान् नूतनान् प्रकारान् असृजत्। विषये विचारे निरूपणे च स: नौतन्यम् प्रदर्शितवान्। किन्तु बहव: संस्कृतज्ञा: तत् न जानन्ति अपि। संस्कृत-प्राध्यापका: अपि नूतनम् साहित्यम् न दृष्टवन्त: इति लज्जास्पदम् इदम्। हिन्दी-प्रभृतिषु भाषासु यत् साहित्यम् नव-विधया जायते, तस्य परिचय: सर्वेषाम् भवति, तत् विषये विचारविमर्श: प्रवर्तते। तादृशी परिस्थिति: संस्कृते न अस्ति इति विषादास्पदम्। नूतनम् सकलम् साहित्यम् प्रशंसनीयम् इति न अस्माकम् अभिप्राय:। प्रशंसन्तु जना: निन्दन्तु वा। किन्तु प्रथमम् पठन्तु। तदा एव रचनासु वैविध्यम् सम्भवेत्।

Interlinear, literal translation


संस्कृत-रचनासु In Sanskrit-writings वैविध्यम् diversity अस्तु may there be

संस्कृत-भाषायाम् In Sanskrit-language बहव: many कवय: poets साहित्यम् literature रचयन्ति are creating इति so महत: of great प्रमोदस्य of happiness स्थानम् place। किन्तु But तत्र there वैविध्यम् diversity not दृश्यते is seen इति so चिन्ताया: of worry कारणम् cause। जीवन्त्याम् In alive भाषायाम् in language वैविध्यम् diversity जायते grows। वैदिकम् Vedic साहित्यम् literature पुराण-साहित्य-रूपेण by Purana-literature-form, तत: thereafter काव्य-साहित्य-रूपेण by poetry-literature form, नाटक-रूपेण by play-form वैविध्यम् diversity प्राप्नोत् achieved। तत: Thereafter तु but वैविध्यम् diversity स्थगितम् suspended। इदानीम् Now अपि also संस्कृत-कवय: Sanskrit-poets कालिदासम् to Kalidasa भवभूतिम् to Bhavabhooti भारविम् to Bharavi वा or अनुसृत्य by following पद्यानि stanzas रचयितुम् to create एव only यतन्ते try। विश्वस्य World's प्रमुखासु in main भाषासु in languages यत् what साहित्य-वैविध्यम् literature-diversity संजातम् exists, तत् that देवभाषायाम् in Sanskrit क्वचित् sometimes एव only दृश्यते is seen। तादृशा: Such प्रयत्ना: attempts not अभवत् happened इति so no ब्रूम: we say। केचन Some people कर्णाटक-देशे in Karnataka-state षट्-पदी six-line stanza साहित्यानाम् of literatures देवभाषायाम् in Sanskrit रचयितुम् to create प्रायतन्त attempted। किन्तु But संस्कृतज्ञा: Sanskrit-knowers नावीन्य-विमुखा: novelty-opposed तत्र there अधिकम् much उत्साहम् encouragement not प्रादर्शयन् showed। डा. Dr अभिराज-राजेन्द्र-मिश्र: Abhiraj Rajendra Mishra स्वागत-अर्हान् welcome-worthy नूतनान् new प्रकारान् forms असृजत् created। विषये In Subject विचारे in thought निरूपणे in inpresentation and स: he नौतन्यम् novelty प्रदर्शितवान् demonstrated। किन्तु But बहव: many संस्कृतज्ञा: Sanskrit-knowers तत् that not जानन्ति knowing अपि also। संस्कृत-प्राध्यापका: Sanskrit-teachers अपि also नूतनम् new साहित्यम् literature not दृष्टवन्त: seeing इति so लज्जास्पदम् shameful इदम् it। हिन्दी-प्रभृतिषु In Hindi-starting भाषासु in languages यत् what साहित्यम् literature नव-विधया by new form जायते is created, तस्य its परिचय: introduction सर्वेषाम् in all भवति happens, तत् that विषये in subject विचारविमर्श: deliberation प्रवर्तते happens। तादृशी Such परिस्थिति: situation संस्कृते in Sanskrit not अस्ति is इति so विषादास्पदम् matter of sorrow। नूतनम् New सकलम् all साहित्यम् literature प्रशंसनीयम् praiseworthy इति so not अस्माकम् our अभिप्राय: intention। प्रशंसन्तु Praise जना: people निन्दन्तु criticize वा or। किन्तु But प्रथमम् first पठन्तु they read। तदा Then एव only रचनासु in writings वैविध्यम् diversity सम्भवेत् may be possible

Natural translation


Diversity Needed in Sanskrit Literature

It is a matter of delight that many poets are creating poetry in Sanskrit. But it is also a matter of worry that diversity is not seen in their works. Diversity grows in vibrant languages. Vedic literature achieved diversity successively in the form of Puranic literature, poetry and drama. But that was the end of novelty. Even now Sanskrit-poets only try to write stanzas following Kalidasa, Bhavabhooti or Bhairavi.
          Diversity seen in the major languages of the world is not seen in Sanskrit. We don't suggest that such attempts have not been made. Some writers in Karnataka have made efforts to write six-line stanzas. But the followers of Sanskrit, disinclined to innovation, did not show much encouragement to such efforts. Dr Abhiraj Rajendra Mishra created welcome new forms of writing. He demonstrated innovation in subject matter, in ideas and in presentation. But many Sanskrit-lovers don't even know that.
          It is a matter of shame that even the teachers of Sanskrit are not looking at modern literature. We find that new forms of literature get introduced and discussed in languages like Hindi, but unfortunately that is not seen in the case of Sanskrit.

          We don't suggest that new literature is all praiseworthy. People may like it or criticize it. But at least they should read it first. Only then diversity in writings may be possible.

To receive these posts directly in your inbox, send a request to sanskrit-hub+subscribe@googlegroups.com.

Thursday, December 4, 2014

सुभाषितम् Subhashit

Original text (with corrections)


आहारनिद्राभयमैथुनञ्च
सामान्यमेतत् पशुभिर्नराणाम्।
धर्मों हि तेषामधिको विशेषस्
धर्मविहीना: पशुभि: समाना:

Version without sandhis


आहार-निद्रा-भय-मैथुनम्
सामान्यम् एतत् पशुभि: नराणाम्।
धर्म: हि तेषाम् अधिक: विशेष:
धर्म-विहीना: पशुभि: समाना:

Interlinear, literal translation


आहार- food, निद्रा- sleep, भय- fear, मैथुनम् sex and
सामान्यम् common एतत् this पशुभि: with animals नराणाम् of humans.
धर्म: Conscience हि only तेषाम् theirs अधिक: additional विशेष: special
धर्म-विहीना: conscience-less पशुभि: with animals समाना: equals.

Natural translation


Food, sleep, fear, sex--these are common to animals and humans. Conscience is the only thing special among humans; those without conscience are no different from animals.

Comment:

धर्म (dharma) in old Sanskrit texts does not mean religion; that is a contemporary usage. In old Sanskrit texts, it always means conscience, righteousness, the sense of what is right and what is not.

To receive these posts directly in your inbox, send a request to sanskrit-hub+subscribe@googlegroups.com.